Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूसस्य लुना-२५ इति अन्तरिक्षयानं दुर्घटनाग्रस्तं जातम्। अन्तरिक्षसंस्थायाः रोस्कोस्मोस् इत्यनेन रविवासरे एषा सूचना दत्ता। अन्तरिक्षसंस्थायाः कथनमस्ति यत् शनिवासरे सायं ०५:२७ वादने अन्तरिक्षयानेन सह सम्पर्कः नष्टः। पूर्व-अवरोहणकक्षाया: परिवर्तनं कुर्वत: तस्य तान्त्रिकदोषः उद्भूत:। लूना इत्यनेन चन्द्रस्य दक्षिणध्रुवे अगस्तमासस्य २१ दिनाङ्के अवतरितव्यम् आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्