Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभाषायाः महान् विद्वान् पद्मश्री डाह्याभाई शास्त्री ९७ तमे वर्षे नदियादनगरे स्वर्गं गतः। अन्तिमदर्शनार्थं ब्रह्मर्षिसंस्कारधाम्नि तस्य मर्त्यशरीरं स्थापितम् आसीत्। अद्य तस्य अन्त्येष्टिः अभवत्। ज्ञातव्यं यत्, सः आजीवनं संस्कृतभाषायाः, शिक्षायाः च प्रसाराय कार्यं कृतवान्। महेसाणाजनपदस्य विजापुरस्थानस्य वसईडाभला इति ग्रामे १९२६ तमे वर्षे फरवरीमासस्य २६तमे दिनाङ्के ब्राह्मणपरिवारे तस्य जन्म अभवत्। स: अहमदाबादनगरे वारणस्यां च अभ्यासं कृतवान् आसीत्। स: वैयाकरण: साहित्याचार्य: हिन्दीविषारद: चासीत्। बालकेषु संस्कृते: ज्ञानाय रक्षणाय च संस्कृतभाषाज्ञानप्रदानस्य कार्यं स: आजीवनं कृतवान्। संस्कृतपाठशालाया: आचार्यरूपेण स: कार्यं कृतवान् आसीत्। निवृत्त्यनन्तरं महोदय: स्वस्वप्नं साकारीकर्तुं नडियादनगरे ब्रह्मर्षिसंस्कारधाम्न: स्थापनां कृत्वा मार्गदर्शनम् अयच्छत्। अस्मिन् परिसरे एव तस्य मार्गदर्शनेन संस्कृतमहाविद्यालय:, गोशाला, वेदविद्याभवनं, आङ्ग्लविद्याभवनं, योगकेन्द्रं च चलति यत्र नैके छात्रा: पठन्त: सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्