Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अबुधाबीप्रदेशे ओर्गेनाइजेशन ओफ इस्लामिक को-ओपरेशन इत्यस्य विदेशमन्त्रिणां सम्मेलने अतिथिरूपेण गतवत्या भारतस्य विदेशमन्त्रिण्या सुषमास्वराजेन पाकिस्तानं आतङ्कस्य आश्रयदातारूपेण प्रतिपादितम्। तया उक्तं यत् यदि वयं मानवतां रक्षितुमिच्छामः तर्हि आतङ्कवादाय आश्रयं धनं च दातृभ्यः देशेभ्यः आतङ्ककेन्द्राणि नाशयितुं कथनीयम्। आतङ्कवादनिमित्तं धनराशिः आश्रयः कदापि न दातव्यम्। मुस्लिमदेशानां कार्यक्रमे भारतस्य विदेशमन्त्रिण्याः सम्माननम् पाकिस्तानस्य कृते चिन्तनीयः विषयः अस्ति । भारतसर्वकारस्य अन्ताराष्ट्रियकूटनीतिकारणात् मुस्लिमदेशाः अपि पाकिस्तानस्य आतङ्कवादस्य आतङ्कीस्तानं तर्जयन्तः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्