Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकया उक्तं यत् पाकिस्तानस्य अहितकर-गतिबिधिन् विलोक्यापि प्रधानमन्त्री नरेन्द्रमोदी तेन साकं शान्ति-सम्भाषणं कर्तुं नार्हति| ट्रम्पशासनस्य वरिष्ट-अधिकारिणा प्रोक्तं यत् यदि पाकिस्तानं भारतेन सह वाणिज्यिकं सम्बन्धं प्रवर्तयितुम् इच्छति तर्हि तेन विश्वासपूर्ण: सम्बन्ध: स्थापनीय: भवति| तदेव तस्य श्रीयसे भविष्यति| आगामि सप्ताहे अमेरिकीय: विदेश-व्यवहार-मन्त्री रैक्स-टिलरसन: भारत-पाकीस्तानयो: यात्रायै समायाति| सम्प्रति भारतस्य स्पष्टा नीति: अस्ति यत् आतङ्कवाद: शान्तिसम्भाषणं युगपद् एव नैव चलिष्यत:|

अद्यतनवार्ता

भारतम्

विश्वम्