Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पृथिवीनिरीक्षकः उपग्रहः नासा-इस्रो सिन्थेटिक एपर्चर रडारः (NISAR) अद्य बुधवासरे (३० जुलै) प्रक्षेपितः भविष्यति। इसरो इत्यस्य जीएसएलवी-एफ१६ रॉकेट् बुधवासरे सायं ५:४० वादने श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रात् उड्डीय उपग्रहं सूर्य-समकालिक-ध्रुवीय-कक्षायां स्थापयिष्यति। अस्य महत्त्वाकांक्षिणः अभियानस्य २७:३० घण्टानां विपरितगणना मङ्गलवासरे अपराह्णे २:१० वादने आरब्धा। निसार-उपग्रह: प्रत्येकं १२ दिवसानन्तरं पृथिव्याः सम्पूर्णभूमे:, हिमपृष्ठं च निरीक्षिष्यते । एकं सेन्टिमीटर् स्तरं यावत् सम्यक् छायाचित्रं स्वीकृत्य प्रसारयितुम् उपग्रह: समर्थ: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्