Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देहलीनगरे यातायातनियमानां वर्धमानम् उल्लङ्घनं निवारयितुं यातायातारक्षकदलेन महती योजना कल्पिता अस्ति यस्मिन् देहलीजनाः रक्तसंकेतान् भङ्गं कुरुतां, विपरितदिशि गन्तॄणां, असुरक्षितयानचालयितॄणां चित्रं गृहीत्वा तेभ्य: सम्यक् बोधपाठं दातुं शक्नुवन्ति अपि च ५०,००० रुप्यकपर्यन्तं पुरस्कारं च प्राप्तुं शक्नुवन्ति। देहलीयातायातपुलिसदलद्वारा यातायात-प्रहारी-एप् प्रारब्धमस्ति यस्मिन् जनाः यातायात-नियम-भङ्गं कुर्वतां विषये आवेदनं कर्तुं शक्नुवन्ति ।

कोऽपि एण्ड्रॉयड् स्मार्टफोन-उपयोक्ता Google Play Store तः Traffic Prahari इति एप् डाउनलोड् कर्तुं शक्नोति । तदनन्तरं यदा कदापि कोऽपि यातायातनियमान् उल्लङ्घयति यथा रक्तसंकेतान् भङ्गं करोति, विपरितदिशि वाहनचालनं करोति, असुरक्षितरूपेण वाहनचालनं वा करोति तदा ते एप्-द्वारा चित्रं चलचित्रं च स्वीकृत्य उपारोपणं कर्तुं शक्नुवन्ति एतेन सह समयदिनाङ्कादिनां विवरणमपि लेखनीयं भवति।

अद्यतनवार्ता

भारतम्

विश्वम्