Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशस्य टेक्सास्-नगरे सोमवासरे १०,००० जनाः मिलित्वा गीतापाठं कृतवन्तः। गुरुपूर्णिमायाः अवसरे एलेन् इस्टसेन्टर इत्यस्य सभागारे ४ वर्षत: ८४ वर्षीया: जनाः पाठं कृतवन्तः। आयोजनं योगसंगीता एवं एसजीएस गीता फाउण्डेशन इत्येताभ्यां कृतम्।

मैसूरस्य अवधूतदत्तपीठम् इति आश्रमस्य समाचारः अस्ति यत् आध्यात्मिकगुरु: गणपतिसच्चिदानन्दजी इत्यस्य सान्निध्ये कार्यक्रमोऽयं सम्पन्न:। एते सर्वे १० सहस्रं जनाः विगत ८ वर्षेभ्यः सच्चिदानन्दस्वामी इत्यनेन सह सम्बद्धाः सन्ति। स्वामी अमेरिकादेशे एतादृशान् कार्यक्रमान् आयोजयति।

कार्यक्रमेऽस्मिन् अमेरिकासांसदः रिचर्ड मेकॉर्मिकः अवदत् यत् अमेरिकादेशे वसतां हिन्दूनां समीपे अग्रिमराष्ट्रपतिं निर्वाचयितुं शक्तिः अस्ति। एकदा भवन्तः समीचीननेतृभिः सह सम्बद्धाः भवन्ति तदा भवन्तः स्वस्य सामर्थ्यं ज्ञास्यन्ति। भवन्तः अमेरिकादेशस्य कृते तान् नियमान् लेखिष्यन्ति ये अस्माकं देशं आगामिषु दशकेषु अग्रे सारयिष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्