Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य प्रातः आभासीयमाध्यमेन राजस्थानस्य ’वन्देभारत एक्सप्रेस् रेलयानाय हरितपताका प्रदर्शिता। यानमिदं अजमेर-देहलीकेन्ट्नगरयोः मध्ये चलिष्यति। जयपुर-अलवर-गुरुग्रामनगरेषु एतत् यानं स्थास्यति। अवसरेऽस्मिन् नरेन्द्रमोदिना उक्तं यत् वन्देभारत एक्सप्रेस् यानं “भारतं प्रथमं सर्वदा प्रथमं: इति भावं जनयति। एतत् रेलयानं विकासस्य विनयशीलतायाः आत्मनिर्भरतायाः स्थिरतायाः च पर्यायः अभवत्। राजस्थानस्य पर्यटन-उद्योगाय इदं यानं अत्यन्तं लाभप्रदं सेत्स्यति इति।

अद्यतनवार्ता

भारतम्

विश्वम्