Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

परमपूज्यानां प्रमुखस्वामिनां शताब्दीमहोत्सवस्य आरम्भः अद्य ओगनजस्थाने अहमदाबादनगरे अभवत्। अस्य उत्सवस्य कृते सायन्ससिटी-ओगनाजयोः मध्ये एसपी रिंगरोड् इत्यस्य पार्श्वे ६०० एकर् भूमौ स्वामिनारायणनगरस्य निर्माणं कृतम् अस्ति । अद्य ब्रह्मस्वरूप: महन्तस्वामी प्रधानमन्त्री नरेन्द्रमोदी च प्रमुखस्वामिमहाराजस्य  जन्मशताब्दीपर्वणः शास्त्रोक्तविधिपूर्वकम् उद्घाटनं कृतवन्तौ। अस्मिन् समये भारतीयसंस्कृतेः, विभिन्नराज्यानां नृत्यानां च प्रदर्शनानि प्रस्तुतानि ।  महोत्सवस्य उद्घाटनानन्तरं नरेन्द्रमोदी, महन्तस्वामी, मुख्यमन्त्री, ब्रह्मविहारी स्वामी, राज्यपालः मञ्चे उपविष्टवन्तः ततः अयं मञ्चः अर्धकिलोमीटर् यावत् प्रमुखस्वामिप्रतिमां प्रति अगच्छत् यत्र अतिथिभि: प्रमुखस्वामिनः चरणवन्दनं कृतम्।

अस्मिन् उद्घाटनकार्यक्रमे नरेन्द्रमोदिना सह मुख्यमन्त्री भूपेन्द्रपटेलः, राज्यपालः देवव्रत आचार्यः च उपस्थितौ आस्ताम्। प्रमुखस्वामिशताब्दीमहोत्सवे अहमदाबादसहितेभ्यः अन्यनगरेभ्यः लक्षाधिका: हरिभक्ताः जनाः उपस्थिताः आसन्। 

प्रधानमन्त्री नरेन्द्रमोदी ब्रह्मविहारी स्वामिना सह विद्युत्-कारयाने उपविश्य प्रदर्शनं दृष्टवान्।
उत्सवे आगच्छतां जनानां कृते भिन्न-भिन्न-आसन-व्यवस्था कृता आसीत् । प्रमुखातिथीनां साधूनां च कृते प्रथमपङ्क्तौ आसनस्य व्यवस्था कृता आसीत् । हरिभक्तानां कृते आसन्देषु तल्पेषु च उपविष्टुम् आयोजनम् आसीत्। सर्वेषां जनानां कृते भोजनपुटस्य अपि व्यवस्था कृता आसीत् एतदर्थं 1. 25 लक्षं खाद्यपुटानि निर्मितानि आसन्। प्रत्येकम् आसनव्यवस्थायाः समीपे चिकित्सादलः अपि उपस्थितः आसीत् । सभागारं गन्तुम् अन्यव्यवस्थायै स्वयंसेवकाः उपस्थिताः आसन्। 

शताब्दीमहोत्सवे भागं ग्रहीतुं मासाभ्यन्तरे एव ३ लक्षं प्रवासिनः आगमिष्यन्ति, यस्य कृते अहमदाबाद-नगरे सर्वेषु पञ्चतारक-विश्रामगृहेषु ९० प्रतिशतं, अन्यचतुष्तारक-विश्रामगृहेषु ७० प्रतिशतं च आरक्षणं जातमस्ति। अर्थात् २० सहस्रं प्रकोष्ठाः पूर्वमेव आरक्षिताः सन्ति । पञ्चतारकविश्रामस्थानेषु प्रथमवारं स्वामिनारायणभोजनस्य व्यवस्था अपि कृता अस्ति । एतत् एव न, तेषां कृते विश्रामस्थानेषु पृथक् पृथक् भोजनस्य व्यवस्था कृता अस्ति ।

२४ राष्ट्रप्रमुखाः आगमिष्यन्ति इति कारणेन वैयक्तिकविमानयानानां सम्मर्दः वर्धिष्यते।
शतवार्षिकोत्सवे देशस्य विदेशेषु च सर्वकोणात् जनाः उपस्थिताः भविष्यन्ति। २४ देशानाम् प्रधानमन्त्रिणः आमन्त्रिताः सन्ति। ते एकस्मिन् दिने उत्सवे भागं गृह्णन्ति, यस्य कारणात् विमानस्थानके बहुसंख्यकाः चार्टर्ड् विमानयानानि भविष्यन्ति।

विषाक्तरसायनानि, ज्वलनशीलपदार्थानि च वहतां वाहनानां कृते राजमार्गः उद्घाटितः अस्ति, परन्तु उत्सवस्य समये एतानि वाहनानि सनाथलचतुष्पथात् वैष्णोदेवीवृत्तपर्यन्तं गन्तुं न शक्नुवन्ति।

परमपूज्यानां प्रमुखस्वामिनां शताब्दीमहोत्सवस्य आरम्भः अद्य ओगनजस्थाने अहमदाबादनगरे अभवत्। अस्य उत्सवस्य कृते सायन्ससिटी-ओगनाजयोः मध्ये एसपी रिंगरोड् इत्यस्य पार्श्वे ६०० एकर् भूमौ स्वामिनारायणनगरस्य निर्माणं कृतम् अस्ति । अद्य ब्रह्मस्वरूप: महन्तस्वामी प्रधानमन्त्री नरेन्द्रमोदी च प्रमुखस्वामिमहाराजस्य  जन्मशताब्दीपर्वणः शास्त्रोक्तविधिपूर्वकम् उद्घाटनं कृतवन्तौ। अस्मिन् समये भारतीयसंस्कृतेः, विभिन्नराज्यानां नृत्यानां च प्रदर्शनानि प्रस्तुतानि ।  महोत्सवस्य उद्घाटनानन्तरं नरेन्द्रमोदी, महन्तस्वामी, मुख्यमन्त्री, ब्रह्मविहारी स्वामी, राज्यपालः मञ्चे उपविष्टवन्तः ततः अयं मञ्चः अर्धकिलोमीटर् यावत् प्रमुखस्वामिप्रतिमां प्रति अगच्छत् यत्र अतिथिभि: प्रमुखस्वामिनः चरणवन्दनं कृतम्।

अस्मिन् उद्घाटनकार्यक्रमे नरेन्द्रमोदिना सह मुख्यमन्त्री भूपेन्द्रपटेलः, राज्यपालः देवव्रत आचार्यः च उपस्थितौ आस्ताम्। प्रमुखस्वामिशताब्दीमहोत्सवे अहमदाबादसहितेभ्यः अन्यनगरेभ्यः लक्षाधिका: हरिभक्ताः जनाः उपस्थिताः आसन्। 

प्रधानमन्त्री नरेन्द्रमोदी ब्रह्मविहारी स्वामिना सह विद्युत्-कारयाने उपविश्य प्रदर्शनं दृष्टवान्।
उत्सवे आगच्छतां जनानां कृते भिन्न-भिन्न-आसन-व्यवस्था कृता आसीत् । प्रमुखातिथीनां साधूनां च कृते प्रथमपङ्क्तौ आसनस्य व्यवस्था कृता आसीत् । हरिभक्तानां कृते आसन्देषु तल्पेषु च उपवेष्टुम् आयोजनम् आसीत्। सर्वेषां जनानां कृते भोजनपुटस्य अपि व्यवस्था कृता आसीत् एतदर्थं 1. 25 लक्षं खाद्यपुटानि निर्मितानि आसन्। प्रत्येकम् आसनव्यवस्थायाः समीपे चिकित्सादलः अपि उपस्थितः आसीत् । सभागारं गन्तुम् अन्यव्यवस्थायै स्वयंसेवकाः उपस्थिताः आसन्। 

शताब्दीमहोत्सवे भागं ग्रहीतुं मासाभ्यन्तरे एव ३ लक्षं प्रवासिनः आगमिष्यन्ति, यस्य कृते अहमदाबाद-नगरे सर्वेषु पञ्चतारक-विश्रामगृहेषु ९० प्रतिशतं, अन्यचतुष्तारक-विश्रामगृहेषु ७० प्रतिशतं च आरक्षणं जातमस्ति। अर्थात् २० सहस्रं प्रकोष्ठाः पूर्वमेव आरक्षिताः सन्ति । पञ्चतारकविश्रामस्थानेषु प्रथमवारं स्वामिनारायणभोजनस्य व्यवस्था अपि कृता अस्ति । एतत् एव न, तेषां कृते विश्रामस्थानेषु पृथक् पृथक् भोजनस्य व्यवस्था कृता अस्ति ।

२४ राष्ट्रप्रमुखाः आगमिष्यन्ति इति कारणेन वैयक्तिकविमानयानानां सम्मर्दः वर्धिष्यते।
शतवार्षिकोत्सवे देशस्य विदेशेषु च सर्वकोणात् जनाः उपस्थिताः भविष्यन्ति। २४ देशानाम् प्रधानमन्त्रिणः आमन्त्रिताः सन्ति। ते एकस्मिन् दिने उत्सवे भागं गृह्णन्ति, यस्य कारणात् विमानस्थानके बहुसंख्यकाः चार्टर्ड् विमानयानानि भविष्यन्ति।

विषाक्तरसायनानि, ज्वलनशीलपदार्थानि च वहतां वाहनानां कृते राजमार्गः उद्घाटितः अस्ति, परन्तु उत्सवस्य समये एतानि वाहनानि सनाथलचतुष्पथात् वैष्णोदेवीवृत्तपर्यन्तं गन्तुं न शक्नुवन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्