Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातराज्यस्य सुरतनगरे अपूर्वः विवाहसमारम्भः आयोजितः । विवाहोऽयं केवलं सप्तदशनिमेषेषु एव सम्पन्नः अभवत् । एतस्मिन् विवाहे किमपि चाकचिक्यं न आसीत् । विवाहार्थं आगताः सम्बन्धिनः स्वजनाः मित्राणि च स्वगृहतः एव भोजनम् आनीतवन्तः । तत्रैव सर्वैः मिलित्वा भोजनं कृतम् । षण्मासेभ्यः पूर्वमेव वित्तकोषाधिकारिणः युवकस्य वैद्ययुवत्या सह एकस्मिन् सत्सङ्गकार्यक्रमे परिचयः जातः आसीत् । ताभ्यां मिलित्वा एव समाजस्य विवाहप्रसङ्गेषु जायमानस्य अपव्ययस्य विरोधं कर्तुं निर्धारः कृतः आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्