Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मुकाश्मीरे अनंतनागप्रदेशे सुरक्षादलानां आतङ्किभिः सह जाते युद्धे एकः आतङ्की सज्जादतांत्रे मृतः । ए.एन.आई-वार्तानुसारं रविवासरे डुडु इति स्थाने कतिपयाः आतङ्किनः निगूढाः इति वार्तां प्राप्य सुरक्षादलैः अन्वेषणाभियानम् आरब्धम्। तदा तैः सह जाते युद्धे सज्जादः मृतः अपि च त्रयः आतङ्कवादिनः गृहीताः। तेभ्यः आधुनिकानि शस्त्राणि अपि प्राप्तानि सन्ति। प्राप्तविवरणानुसारं वर्षेऽस्मिन् 176 आतङ्कवादिनः सुरक्षादलै: मारिताः। तेषु 126 स्थानिकातङ्किनः आसन्।  

अद्यतनवार्ता

भारतम्

विश्वम्