Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकतः सिरिया-तुर्की-देशयोः भूकम्पैः विनाशः जातः, अपरतः गुजरातप्रदेशे चिरकालात् भूकम्पाः भवन्ति । गुजरातप्रदेशे अपि केषुचित् मण्डलेषु तदा तदा भूकम्पस्य सूचनाः दृश्यन्ते, अद्य अन्यत् प्रतिवेदनम् आगतम्। राजकोट्-नगरात् २७० कि.मी दूरे कच्छ-पाकिस्तान-सीमायां वायव्यदिशि ४.३ तीव्रतायां भूकम्पः अभवत् । राष्ट्रियभूकम्पविज्ञानकेन्द्रस्य अनुसारं भूकम्पकेन्द्रं १० कि.मी.अधः अस्ति।

अपराह्णे ३.२१ वादने भूकम्पस्य अनन्तरं जनाः भवनेभ्यः बहिः गतवन्तः। राजकोटतः २७० कि.मी दूरे भूकम्पस्य केन्द्रं ज्ञातम् । परन्तु अस्य भूकम्पस्य आघातेन कस्यापि सम्पत्तिक्षतिः न अभवत् । महत्त्वपूर्णं यत् अमरेलीनगरे २४ होराषु ६ भूकम्पाः अभिलेखिताः सन्ति । एकस्य अभिलेखानुसारं २०२१ तः अमरेलीनगरे भूकम्पस्य निरन्तरं वृद्धिः अस्ति । गतबुधवासरे अर्थात् २२ फेब्रुवरी दिनाङ्के दिल्लीतः उत्तरप्रदेशं, उत्तराखण्डं, नेपालं च यावत् भूकम्पाः अनुभूताः। भूकम्पस्य केन्द्रं नेपालदेशः आसीत् । अस्य भूकम्पस्य परिमाणं रिक्टर्-मापने ४.८ इति मापितम् । अस्य केन्द्रं नेपालदेशस्य जुम्लातः प्रायः ७० कि.मी दूरे आसीत् । परन्तु दिल्ली एनसीआर इत्यत्र आघाताः बहु मृदुतराः आसन् ।

अद्यतनवार्ता

भारतम्

विश्वम्