Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी संयुक्त अरब अमीरातदेशेन सह मध्यपूर्वतः यूरोपपर्यन्तं जायमानस्य आर्थिकसम्पथस्य (भारतमध्यपूर्वस्य इकोनोमिक कोरिडोर) कार्यं निरन्तरं कर्तुं सन्धिं कृतवान्। बुधवासरे यूएई-देशस्य राजधान्याम् अबुधाबीनगरे हिन्दुमन्दिरस्य उद्घाटनस्य अनन्तरं यूएई-देशेन भारताय एतं द्वितीयम् उपहारं दत्वा चीनस्य विषाद: वर्धित:।

IMEC Corridor इति महत्त्वाकांक्षिणी परियोजना अस्ति। अयं सम्पथ: भारतं, संयुक्त अरब अमीरात्, सऊदी अरब, जॉर्डन, इजरायल् यूरोपदेशं प्रति गमिष्यति । परियोजनायाः अन्तर्गतं मध्यपूर्वत: भारतं यूरोपं प्रति योक्तुम् अपि च  समुद्रमार्गः, रेलमार्ग: च विन्यस्येते। परियोजनायाः मुख्य: आशय: व्यापारं वर्धयितुं वाहनव्ययस्य समयस्य च न्यूनीकरणं च अस्ति । यतो हि भारतस्य परियोजना चीनदेशस्य 'बेल्ट एण्ड रोड इनिशिएटिव् (BRI)' परियोजनायाः प्रतिद्वन्द्वी इति दृश्यते, अतः IMEC सम्पथे या कापि प्रगतिः भवति सा चीनस्य चिन्ताम् वर्धयिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्