Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ब्रिटिशसांसदेन बॉब ब्लैकमैन इत्यनेन बीबीसी इत्यस्य प्रचारवृत्तचित्रस्य विषये महत् वक्तव्यं दत्तम्। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी विषये निर्मितस्य बीबीसी-वृत्तचित्रे तथ्यानि पूर्णतया अतिशयोक्तिपूर्णानि इति ब्लैकमैन मंगलवासरे अवदत्। तेनोक्तं यत् “बीबीसी ब्रिटिश-सर्वकारस्य विचाराणां प्रतिनिधित्वं न करोति। भारतस्य प्रधानमन्त्रिणः विषये ‘इंडिया : द मोदी क्वेश्चन’ इति द्विभागीयं वृत्तचित्रं स्तरहीनपत्रकारितायाः परिणामः अस्ति। अस्मिन् विषये सम्यक् संशोधनं न कृतम् । एतत् सर्वथा अन्यायपूर्णम् अस्ति” इति ।

पूर्वं २०२३ तमस्य वर्षस्य जनवरी-मासस्य २७ दिनाङ्के बॉब ब्लैकमैन काश्मीरीपण्डितानां नरसंहारविषय ट्वीट् कृत्वा स्वदेशस्य जनान् काश्मीरीपण्डितानां प्रति कृतानां अत्याचारानाम् विषये शिक्षितुं प्रतिज्ञां कृतवान् आसीत्। सः उक्तवान् आसीत् यत् १९९० तमे वर्षे उपत्यकायां काश्मीरीपण्डितानां नरसंहारः अभवत्, येन तैः गृहं त्यक्त्वा बहिर्गन्तुं बाध्यता अभवत् ।

अद्यतनवार्ता

भारतम्

विश्वम्