Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केनेडादेशं गच्छत्सु भारतीयेषु बहुसंख्यकाः पञ्जाबीजनाः गुजरातीजनाः च सन्ति । यदा केनेडासर्वकारेण भारतीयानां विषये सर्वेक्षणं कृतं तदा ज्ञातं यत् केनेडादेशे यावन्तः पञ्जाबीजनाः सन्ति तावन्तः गुजरातीजनाः अपि सन्ति अतः सर्वकारेण गुजरातीभाषायां वीजानियमानां विषये सूचनाः स्वस्य जालपुटे प्रदातुं आरब्धम्। अद्यावधि प्रवेशपत्रसूचना: आङ्ग्लभाषायां, हिन्दीभाषायां, पंजाबीभाषायां च दीयन्ते स्म। https://www.canada.ca इति जालपुटे छात्राणां, व्यावसायिकानां, परिवाराणां च वीजाविनियमानां सूचनाः प्राप्यन्ते।

अद्यतनवार्ता

भारतम्

विश्वम्