Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातविधानसभायाः निर्वाचनकाले प्रतिदिनं सर्वेषु दलेषु आरोप-प्रत्यारोप-आक्षेप-विरोधादिनां लीला आरब्धा। सद्यः एव भारतीयजनतापक्षस्य पुरातनः विद्वान् कविहृदयः पूर्वमन्त्री जयनारायणव्यासः त्यागपत्रं दत्वा भाजपादलात् बहिर्गतः। अद्य पुनः अन्यः एकः व्यासः हिमांशुः यः कोंग्रेसदले सचिवः अन्ताराष्ट्रियकोंग्रेसस्य महत्त्वपूर्णः अधिकारी आसीत् सः भाजपादलं प्रति प्रविष्टः। हिमांशुव्यासः सामपित्रोडावर्यस्य निकटतमः मन्यते। भारतीयजनतापक्षस्य तु तथा सन्तोषः यत् व्यासे(जयनारायणः) गते व्यासः(हिमांशुः) प्राप्तः परन्तु किं कोंग्रेसदल: जयनारायणव्यासं प्राप्य जयं प्राप्स्यति वा?

अद्यतनवार्ता

भारतम्

विश्वम्