Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजिताया: सप्तदिवसीयाया: योगचिकित्साकार्यशालाया: समापनं  विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवनस्य सभागारे अभवत्। मुख्यवक्तृरूपेण  वरिष्ठयोगविशेषज्ञेन श्रीरमेशबीझामहोदयेन योगचिकित्साया: प्रभावस्य विषये उक्तं यत् योगाभ्यासचिकित्सया निरोगीजीवनस्य सूत्राणि उद्घाटितानि भवन्ति। योगानुरूपं आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। कार्यशालाया: अनुभवस्य विषये योगविभागस्य छात्रा मेघाचंदेल, दर्शनापाटीदार च स्वानुभवम् श्रावितवत्यौ। कार्यक्रमस्य अध्यक्ष: विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय  कुमारसीजीवर्य: अवदत् यत् योगाभ्यासेन सह नैतिकमूल्यानां  समायोजनेन योगाभ्यासस्य   प्रभाव: तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। कार्यक्रमस्य  संयोजनं योगविभागाध्यक्षा डॉ. पूजाउपाध्यायमहोदया, संचालनं  सुश्रीईशापाटीदार, प्रतिवेदनं सुश्रीतनीषाशर्मा, आभारप्रदर्शनञ्च डॉ. वरुणआहूजा कृतवन्त:। कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन्।

वार्ताहर: - डॉ.दिनेश चौबे, उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्