Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बागेश्वरधाम्नः पीठाधीश्वरस्य धीरेन्द्रशास्त्रिणः गुरुः तुलसीपीठाधीश्वरः जगद्गुरुः स्वामिरामभद्राचार्यः मध्यप्रदेशस्य जबलपुरे व्याख्यानसमये वर्तमानराजनीतिविषये तीव्रं वाक्प्रहारं कृतवान्। रामभद्राचार्येण उक्तं यत् वयं अखण्डभारतं इष्टवन्तः परन्तु भारतस्य प्रथमस्य प्रधानमन्त्रिणा स्वमहत्त्वकाङ्क्षां पोषयितुं अस्य देशस्य धर्माधारितं विभाजनं कृतम्। देशः धर्माधारितः विभक्तः तथापि अस्माभिः सामञ्जस्यस्य निर्वहनं कृतम्। अतः यदि भवन्तः भारते निवासं कर्तुम् इच्छन्ति तर्हि रघुवर-यदुवरयोः भूत्वा अत्र वसन्तु। परन्तु यदि बाबरस्य भूत्वा वस्तुम् इच्छन्ति चेत् अनुचितम्। भारते “वन्दे मातरम्” इति वक्तव्यं भविष्यति।

भगवतः श्रीरामस्य रामराज्यस्य अनेकानि उदाहरणानि दत्त्वा सः सर्वकारेभ्यः, नेतृभ्यः च उपदेशं दत्तवान् । सर्वकारः अस्मत् अस्ति। वयं सर्वकारात् न स्मः इति

जातिवादः सनातनधर्मविरुद्धम्

जगद्गुरुस्वामी रामभद्राचार्यः जातिवादस्य खण्डनं कुर्वन् अब्राहमलिङ्कनस्य वाक्यं पुनः पुनः उच्चारितवान्। तेनोक्तं यत् आरक्षणं सनातनसंस्कृतेः विरुद्धम् अस्ति। राजनेतृभ्यः अधिकारिभ्यः च रामराज्ये विशेषसुविधा: न मिलन्ति स्म। पशुभिः सह अपि समरसतापूर्वकं व्यवहारः क्रियते स्म। प्रधानमन्त्रिणा यतो हि विशेषसुविधा: निषिद्धा: तथापि राजनेतॄणां शिरस्सु वी.आई.पी इति प्रेतः इतोऽपि भ्रमति। 

राममन्दिरनिर्माणार्थं सर्वकारस्य प्रशंसा

स्वतन्त्रतायाः अनन्तरं राममन्दिरनिर्माणाय न्यायालये १९४९ तमे वर्षे वाद: प्रारब्धः| ७० वर्षाणामनतरं २०१९ तमे वर्षे मन्दिरनिर्माणार्थं निर्णयः आगतः। धारा ३७० ३५ ए इत्यादीनां निरसनं सर्वकारस्य सफलता एव। 

सर्वकारस्य समक्षं याच्ञा

स्वामिना सर्वकारस्य समक्षं याच्ञां कुर्वन् उक्तं यत् अखण्डभारताय समाननागरिकसंहिता शीघ्रतया कार्यान्विता भवेत्। रामचरितमानसं राष्ट्रियग्रन्थरूपेण  उद्घोषितः भवेत्। 

अद्यतनवार्ता

भारतम्

विश्वम्