Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एयर इण्डिया विमानदुर्घटनायाः विषये अमेरिकन-अन्वेषणप्रतिवेदनं बहिः आगतं ततः परं विवादः तीव्रः जात:। विमानचालकस्य उपरि स्थापित: दोष: 'त्वरितः अनुचित:' व्यवहारः इति विमानचालकसङ्घ: वदति । पायलट्-सङ्घस्य एतत् वचनं तदा प्रकाशं प्राप्तम् यदा अमेरिकादेशस्य नूतन-प्रतिवेदने काकपिट्-रेकर्डिङ्ग्-उद्धृत्य प्रतिपाद्यते यत् यानचालक: इञ्जिनयन्त्रस्य इन्धनस्य आपूर्तिं निष्क्रियं कृतवान्, येन दुर्घटना अभवत्। वालस्ट्रीट् जर्नल् इति पत्रिकायाः प्रतिवेदनानुसारं कृष्णपेटिकायाः मुद्रणेन ज्ञातं यत् यानचालक: उड्डयनकाले इञ्जिनस्य ईंधननियन्त्रणपिञ्जं निष्क्रियं कृतवान् आसीत्, अतः विमानस्य कार्यं स्थगितम्। विषयेऽस्मिन् एफआईपी-सन्देशे उक्तं यत् प्रारम्भिकं प्रतिवेदनं प्रकाशितं तत् न अपूर्णं न च पक्षपातपूर्णञ्चास्ति। चालककक्षस्य श्रव्यं विकृतं कृत्वा प्रतिवेदनं दत्तमस्ति तत् सर्वथा अनुचितम् अस्ति। सम्पूर्ण-पारदर्शक-दत्तांशाधारित-अन्वेषणात् पूर्वं कस्यचित् दोषं वक्तुं न केवलं अयोग्यं, अपितु मृतस्य परिवारस्य, विमानचालकस्य च परिवारस्य सहकारिणां च कृते महत् आघातं जनयति। 

अद्यतनवार्ता

भारतम्

विश्वम्