चीनदेशस्य तियानजिन्-नगरे मङ्गलवासरे शङ्घाई-सहयोग-संघटनस्य विदेशमन्त्रिणां मेलने विदेशमन्त्री एस.जयशङ्कर: जम्मू-कश्मीरस्य पहलगाम-नगरे जातस्य आतङ्कवादिनाम् आक्रमणस्य विषयं उत्थाप्य अवदत् यत् सदस्यदेशाः संस्थायाः मूलभूत-उद्देश्येषु प्रतिबद्धाः एव तिष्ठेयुः, आतङ्कवादस्य विरुद्धं कामपि मृदुतां न दर्शयेयुः इति। २०२० तमस्य वर्षस्य जूनमासे गलवान-उपत्यकायां सङ्घर्षस्य अनन्तरं जयशंकरस्य चीन-देशस्य प्रथमा यात्रा अस्ति। जम्मू-कश्मीरस्य पर्यटन-अर्थव्यवस्थां दुर्बलां कर्तुम् अपि च धार्मिक-उग्रतां च जनयितुं २२ एप्रिल-दिनाङ्के पहलगाम्-नगरे आतङ्कवादि-आक्रमणं ज्ञात्वा एव कृतम् इति सः अवदत् ।