Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

श्रीमतीनिर्मलासीतारमणद्वारा अद्य संसदि केन्द्री-अर्थसंकल्पः प्रस्तुत:। एतस्य अर्थसङ्कल्पस्य मुख्यांशाः सन्ति-

  • केन्द्रीयअर्थसङ्कल्पे सूक्ष्म-आर्थिकस्तरस्य सर्वसमावेशिकल्याणयोजनया सह बृहद्-आर्थिकमूल्यवृद्धौ बलं दातुं परिकल्पितम् अस्ति। 
  • भारतस्य आर्थिकवृद्धेः मानं ९.२ प्रतिशतम् अनुमानितम् अस्ति यत् विश्वस्य सर्वासु प्रमुख-अर्थव्यवस्थासु सर्वाधिकम् अस्ति ।
  • उत्पादनसम्बद्धप्रोत्साहनयोजनायाः अन्तर्गतं १४ क्षेत्रेषु ६० लक्षं नवीनजीविकानां सृजनम्।
  • आगामिषु २५ वर्षेषु “भारत@१००” इत्यस्य अमृतकाले प्रविशन् ४ प्राथमिकतानुसारं विकास: साधनीयः।
  1. पीएम गतिशक्तिः
  2. सर्वसमावेशिविकास:
  3. उत्पादसंवर्धनं निवेशश्च, ऊर्जासंक्रमणं जलवायुकार्याणि च
  4. निवेशस्य वित्तपोषणम्
  • स्थानीयव्यापारं आपूर्तिशृङ्खलां च वर्धयितुं एकं स्थानकं एक: उत्पाद: इति संकल्पना।
  • आगामिषु ३ वर्षेषु ४०० उत्तमनां ’वन्देभारत’-रेलयानानां निर्माणम्।
  • गोधूमस्य धान्यस्य च क्रयणार्थं १.६३ कोटि कृषकाणां कृते २.३७ लक्षकोटिरूप्यकाणां साक्षात् अर्पणम्।
  • देशे सर्वत्र रसायनरहितप्राकृतिककृषेः प्रचारः। प्रारम्भे गङ्गानद्याः समीपे ५ कि.मी.पर्यन्तं विस्तारं यावत् विस्तारे कृषकभूमिषु ध्यानम्।
  • सस्यानां आकलनाय भूमि-अभिलेखानां अभियान्त्रिकीकरणम्।
  • जालपुटद्वारा प्रशिक्षणेन नागरिकाणां कौशलं वर्धयितुं डिजिटल इकोसिस्टम फॉर स्किलिंग एंड लिवलीहुड (डीईएसएच-स्टैक ई-पोर्टल)  (DESH-Stack e-Portal) इत्यस्य प्रारम्भः।
  • आलोचनात्मकचिन्तनकौशलम् एवं च प्रभाविशिक्षणवातावरणप्रवर्धनाय आभासीया प्रयोगशालायाः, कौशल ई-प्रयोगशालायाः च स्थापना।श्रेष्ठशिक्षकाणां माध्यमेन अध्ययनार्थं उच्चगुणवत्तायुक्ता ई-सामग्री विकसिता भविष्यति।
  • व्यक्तिगत-अध्ययनार्थं विश्वस्तरीयशिक्षायै डिजिटलविश्वविद्यालयस्य स्थापना।
  • प्रतिगृहं नलिका-जलम् इति योजनायाः अन्तर्गतं 3.8 कोटि परिवाराणां लाभाय 60,000 कोटि रूप्यकाणि।
  • पूर्वोत्तरक्षेत्रे आधारभूतसंरचना-सामाजिकविकास-परियोजनानां वित्तपोषणाय नूतना योजना PM-DEVINE प्रारब्धा।
  • दिव्याङ्गानां आश्रितानां मातापितृभ्यः आश्रितेभ्यः च आजीवनं विशेषलाभाः।
  • आयकरे विशेषलाभः - अधुना ७ लक्षपर्यन्तं वार्षिक-आयं यावत् कोऽपि करः दातव्यः न भविष्यति। पूर्वं एषा सीमा पञ्चलक्षरूप्यकाणि आसीत्।
  • नूतन-आयकर:
  1. 0 - 3 लक्ष रूप्यकाणि - शून्यम्
  2. ३ तः ६ लक्ष - ५% .
  3. ६ तः ९ लक्ष - १०% .
  4. ९ तः १२ लक्ष - १५%
  5. २ तः १५ लक्ष - २०%
  6. १५ लक्षतः उपरि - ३०%

अद्यतनवार्ता

भारतम्

विश्वम्