उत्तरप्रदेशस्य शाहजहानपुरमण्डलस्य जलालाबाद इति नगरम् अधुना 'परशुरामपुरी' इति नाम्ना प्रसिद्धा भविष्यति। केन्द्रीयगृहमन्त्रालयेन तस्य अनुमोदनं दत्तम्। अस्मिन् विषये राज्यस्य मुख्यसचिवेन पत्रं लिखितम् अस्ति। गृहमन्त्रालयस्य सार्वजनिकसूचनायां उक्तं यत् २०२५ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के उत्तरप्रदेशसर्वकारेण जलालाबादस्य नाम परिवर्तनार्थं पत्रं प्रेषितम्। भारतसर्वकारस्य 'जलालाबाद'-नगरस्य नाम 'परशुरामपुरी' इति परिवर्तयितुं कोऽपि समस्या नास्ति ।