Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

२०२०तम-वर्षे दिल्लीनगरे हिन्दुविरोधिग्रामयुद्धप्रकरणे दिल्लीनगरस्य कर्करदूमान्यायालयेन अभियुक्तौ उमरखालिद्, खालिद् सैफी च प्रमाणाभावात् निर्दोषौ उद्घोषितौ। एफआइआर-अनुसारं पाषाणक्षेपणस्य मध्ये यदा कर्तव्यनिष्ठाः पुलिसकर्मचारिणः स्वप्राणान् रक्षितुं पार्किङ्गस्थाने प्रविष्टाः तदा जनसमूहः पार्किङ्गस्थाने प्रविश्य पुलिसकर्मचारिणां उपरि आक्रमणं कृत्वा वाहनेषु अग्निम् अज्वालयन्। परन्तु अभियुक्तौ कारागारेऽव तिष्ठतः यतः दिल्लीहिंसासम्बद्धेषु अन्यप्रकरणेषु उभावपि अभियुक्तौ। उमरखालिदस्य उपरि अवैधक्रियाकलापनिवारण-अधिनियम-(UAPA)अन्तर्गतं हिंसाषड्यंत्रस्यारोपः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्