Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

डीएमके-सांसदस्य सेन्थिलकुमारस्य विवादास्पदवक्तव्यस्य अनन्तरं संसदि महान् कोलाहलः अभवत्। संसद: शीतकालीनसत्रे सः हिन्दीभाषिणां राज्यानां विषये विवादास्पदं वक्तव्यं दत्तवान् येन अन्ये राजनैतिकदलाः क्रुद्धाः अभवन्। अन्येषां दलानाम् नेतारः सेन्थिलस्य वक्तव्यं अमर्यादितं वदन्त: क्षमायाचनां कर्तुं उक्तवन्तः, कोङ्ग्रेसनेता कार्तिचिदम्बरम अपि सेन्थिलकुमारस्य वक्तव्यम् अनुचितम् इति उक्तवान्। अन्यदलस्य नेतार: अपि प्रचण्डं विरोधं कृतवन्त:। एतेन लोकसभायाः राज्यसभायाः च कार्यं श्वः यावत् स्थगितं जातमस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्