Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य बालीप्रदेशे इन्डोनेशियादेशस्य राष्ट्रपतिना प्रतिकात्मकरूपेण प्रधानमन्त्रिणे नरेन्द्रमोदिने जी-20 सङ्घटनस्य प्रमुखपदं समर्पितम्। समापनसत्रे श्रीमोदिना उक्तं यत् क्षणमिदं प्रत्येकं भारतीयस्य कृते गौरवस्य विषयः अस्ति। भारतं देशस्य विविधेषु राज्येषु जी-20 उपवेशनानाम् आयोजनं प्रेरक-वैश्विक-परिवर्तनाय करिष्यति। तेन कथितं यत् प्रमुखपदं समावेशकारकं, महत्त्वकाङ्क्षि, निर्णायकं क्रियालक्षि च भविष्यति। जी-20 सङ्घटनस्य सामूहिकप्रयासय यथायोग्यं वेगं दातुं भारतदेशः वैश्विक-अग्रणी भविष्यति। जी-20 आयोजने महिलाभ्यः प्राथमिकता भवेत् इत्यपि तेन दृढतया उक्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्