Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वे संस्कृतस्य महत्त्वं वर्धमानम् अस्ति। - डो बलदेवानन्दः
संस्कृतसेवासमितिः एच.के. आर्ट्स-महाविद्यालयः च इत्यनयोः सहयोगेन मङ्गलवासरे संस्कृतभाषायाः वरिष्ठस्य विदुषः प्रवाचकस्य डो बलदेवानन्दसागरस्य व्याख्यानस्य आयोजनमभवत्। महोदयेन आकाशवाण्यां दूरदर्शने च अनेकानि वर्षाणि यावत् प्रवाचन-भाषान्तरादिभिः कार्यैः सेवा दत्ता अस्ति। आधुनिक-वैज्ञानिकयुगे संस्कृतस्य महत्त्वं प्रस्थापयितुं महोदयेन उक्तम् यत् संस्कृतस्य महत्त्वं शनैः शनैः वैश्विकस्तरे वर्धितमस्ति। वैद्युताणविक-सञ्चारमाध्यमेषु  न केवलं भारतीयाः अपि तु वैदेशिकाः संस्कृतभाषां पठितुं प्रयत्नरताः सन्ति। ट्विटर् फेसबुक ब्लोग व्होट्स-एप् एन्ड्रोइड् यु-ट्युब् इत्यादिषु www इति विश्वव्यापि-जालस्थानेषु संस्कृतस्य उपयोगः वर्धितः अस्ति। नैके जनाः एतेषु माध्यमेषु संस्कृतस्य प्रयोगं कुर्वन्ति। अद्यत्वे संस्कृतभाषया जीवितभाषारूपेण जनानां मनस्सु स्थानं स्वीकृतमस्ति।  बालानां नैतिकमूल्यवर्धनाय विविधाः एनिमेटेड् इति चलचित्रकथाः सरलतया उपलभ्यन्ते। वार्तापत्राणि पत्रिकाः च नियमितं प्रकाश्यन्ते। चतुर्षु विश्वविद्यालयेषु सञ्चारमाध्यमेषु संस्कृतपत्रकारितायाः अभ्यासक्रमः चलति। संस्कृतं विश्वभाषारूपेण सर्वस्वीकृता जायमाना अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्