Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकीराष्ट्रपतिना स्वस्य ट्वीट्-माध्यमेन उक्तं यत् वयं मिलित्वा जलवायु-ऊर्जा-खाद्य-संकट-सदृशानां समाह्वानस्य निवारणं कृत्वा स्थायि-समावेशि-विकासस्य लक्ष्यं प्रति गमिष्यामः |

पूर्वं इजरायल-राष्ट्रपतिः आइजैक्-हर्जोग् भारतस्य प्रशंसाम् कुर्वन् अवदत् यत् भारत-इजरायल्-देशौ स्वाभाविकमित्रे स्तः, उभौ देशौलोकतान्त्रिकादर्शेषु प्रतिबद्धौ स्तः येषु द्वयोः निर्माणं जातमस्ति। 

गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत् यत् भारतं "एका पृथिवी, एकः परिवारः, एकञ्च भविष्यम्" इति चिन्तनेन प्रेरितो भूत्वा आतङ्क-जलवायुपरिवर्तन-उद्घ्वंसकान् सूचिबद्धान् कृत्वा एकतां वर्धयितुं प्रयत्नं करिष्यति। 

अद्यतनवार्ता

भारतम्

विश्वम्