भारतदेश: चतुरङ्गविश्वचषकस्पर्धा २०२५ इति चतुरङ्गविश्वस्य बृहत्तमप्रतियोगितायाः आतिथ्यं कर्तुं गच्छति । चतुरङ्गविश्वचषकस्पर्धा २०२५ ३० अक्टोबर् तः २७ नवम्बर् पर्यन्तं भविष्यति । FIDE इति अन्ताराष्ट्रियचतुरङ्गसङ्घेन सोमवासरे, जुलैमासस्य २१ दिनाङ्के एतत् घोषितम्। परन्तु भारतस्य कस्य नगरे अस्य स्पर्धायाः आतिथ्यं भविष्यति इति अद्यापि निर्णयः न जात: । परन्तु शीघ्रमेव तस्य घोषणा भविष्यति। अस्यां स्पर्धायां विश्वस्य २०६ स्पर्धका: भागं ग्रहीतुं आगमिष्यन्ति, यस्मिन् विश्वस्य प्रथमक्रमाङ्कस्य मैग्नस् कार्ल्सेन् इत्यस्य नाम अपि अन्तर्भवति।