Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीय-अन्तरिक्षसंशोधनसङ्घटनेन शुक्रवासरे (22 मार्च) पुनः उपयोगयोग्यं प्रक्षेपणवाहनं (RLV LEX-02) सफलतया अवतरितम्। अस्य स्वदेशीयस्य अन्तरिक्षयानस्य नाम ’पुष्पक’ इत्यस्ति। कर्नाटकस्य चित्रदुर्गनगरस्य एरोनॉटिकल टेस्ट् रेन्ज् इत्यत्र ४.५ कि.मी.उच्चतायां उदग्रयानेन उत्थाप्य धावनमार्गे स्वायत्तं अवरोहणार्थं मुक्तम् ।

इसरोद्वारा सामाजिकमाध्यममञ्चे प्रकाशितं यत् पुष्पकस्य सफलमवरोहणं सायं ७:१० वादने अभवत्। एतेन प्रौद्योगिक्या रॉकेटप्रक्षेपणं पूर्वापेक्षया न्यूनमूल्येन भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्