Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जापानदेशस्य प्रधानमन्त्री फुमियो-किशिदा दिनद्वयस्य भारतयात्रायाः कृते दिल्लीनगरम् आगतः अस्ति। अत्र सः राजघाटं प्राप्य महात्मागान्धिने श्रद्धाञ्जलिम् अयच्छत्। तदनन्तरं किशिदा हैदराबादहाउस् इत्यत्र प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलितवान्। नरेन्द्रमोदी तस्मै चन्दननिर्मितां बुद्धप्रतिमाम् अपि उपहाररूपेण दत्तवान्।

दिल्लीनगरस्य बुद्धजयन्तीवाटिकायां जापानप्रधानमन्त्री मोदिना सह मन्थिन्या दधि परिभ्रमय्य दाधिकं निर्मितवान्, जलपूरिकाम् चापि खादितवान्। मोदी किशिदा च उद्याने परिभ्रमणं कृत्वा एकस्यां काष्ठपीठिकासु उपविश्य वार्तालापमपि कृतवन्तौ।

मेलनेऽस्मिन् जापानस्य प्रधानमन्त्रिणा हिरोशिमानगरे आयोजयिष्यमाणस्य जी-७ शिखरसम्मेलनस्य कृते नरेन्द्रमोदिने आमन्त्रणमपि दत्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्