Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बलूचिस्तानप्रदेशे पाकिस्तानसेना क्रान्तिं शमयितुं चीनदेशनिर्मितस्य ड्रोन इति सङ्गरयन्त्रस्य उपयोगं करोति। एतत्पूर्वं पाकिस्तानसेना विरोधिनः नाशयितुं विभिन्नानां शस्त्राणां विमानानां उदग्रयानानाम् उपयोगं करोति स्म। द-यूरेशियन-टाइम्स-वार्तानुसारं विशेषसैनिकैः सह मानवरहितयुद्धविमानानां उपयोगं कृत्वा आक्रमणं करोति। बलूचिस्तानजनैः पाकिस्तानस्य उपरि अत्याचारस्य आरोपः स्थापितः अस्ति। एतस्मिन् दुष्कृत्ये चीनदेश: स्वस्वार्थसिद्धये पाकिस्तानस्य सहायतां करोति । (चित्रम् - प्रतिकात्मकम्)

अद्यतनवार्ता

भारतम्

विश्वम्