Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः द्रौपदी मुर्मू शुक्रवासरे राष्ट्रपतिभवने फ्रांसदेशस्य राष्ट्रपति: इमैनुएल मैक्रों इत्यनेन सह मेलनमकरोत्। तस्य राष्ट्रपतिभवने भव्यं स्वागतं जातम्। अस्मिन् काले उपराष्ट्रपति: जगदीप धनखड, प्रधानमन्त्री नरेन्द्र मोदी, सीजेआई डीवाई चन्द्रचूड आदय: गणमान्या: जना: उपस्थिता: आसन्।अस्मिन् काले राष्ट्रपतिः द्रौपदी मुर्मू भारत-फ्रांसयोः सम्बन्धेषु अवदत् यत् भोजनस्य विषये वयं स्वस्वविशेषैः परस्परं प्रभावं जनयाम:। फ्रान्सदेशे प्राचीनभारतीयभाषायाः वैदिकशास्त्रस्य च प्रसिद्धाः विद्वांसः सन्ति, तथैव भारतीयछात्रेषु फ्रेंचभाषा अतीव लोकप्रिया अस्ति । 

 

अद्यतनवार्ता

भारतम्

विश्वम्