Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिना ५८ दिव्याङ्गाः बालकाः पुरस्कृताः।
विश्व-विकलाङ्ग-दिने राष्ट्रपतिना देहल्यां विज्ञानभवने स्वक्षेत्रे सफलाः आशास्पदाः अष्टपञ्चाशत् बालकाः सम्मनिताः। राष्ट्रपतिना तेभ्यः दिव्याङ्गजन-सशक्तिकरणम् इति राष्ट्रिय-पुरस्कारं दत्वा तेषाम् उत्साहवर्धनं कृतम्। न धर्मवृद्धेषु वयः समीक्ष्यते इति उक्तिं सार्थकं कुर्वन्तः एते बालकाः विकलाङ्गतायाः मर्यादां दुःखञ्च विस्मृत्य स्व स्व क्षेत्रे सफलतां प्राप्तवन्तः। एतैः अन्येषां कृते अपि प्रेरणा दत्ता अस्ति। तेषु एकादशवर्षीयः जिज्ञेश-व्यासः सहस्राधिकान् श्लोकान् कण्ठस्थीकृतवान् अस्ति। एतत् अतिरिच्य सः अनेकानि भजनानि अपि जानाति।सः सेरेब्रल पाल्सी इति व्याधिना पीडितः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्