Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तेलङ्गानाराज्यस्य साइबरबादपुलिसदलेन शनिवासरे ६६.९ कोटिजनानां, विभिन्नानां संस्थानां च गुप्तविवरणानां चौर्यं कृतवतः एकस्य निग्रहणं कृतम्। अद्यपर्यन्तं बृहत्तमं दत्तांशहरणम् इति कथ्यते। आरक्षकदलानुसारं देशस्य २४ राज्येषु ८ बृहन्नगरेषु च विभिन्नानि गुप्तविवरणानि अपहृतानि सन्ति।

अभियुक्तस्य नाम विनय भारद्वाजः अस्ति। सः हरियाणादेशस्य फरीदाबादतः InspireWebz इति जालपुटेन कार्यं कुर्वन् आसीत्। सः चोरितं दत्तांशं क्लाउड् ड्राइव् लिङ्क् मार्गेण ग्राहकेभ्यः विक्रयति स्म। आरक्षकैः दूरभाषद्वयं सङ्गणका: च प्राप्ताः सन्ति।

प्राप्तप्रतिवेदनानुसारं अभियुक्तस्य समीपे बाइजुस्-वेदान्तु-छात्राणां, १.८४ लक्षं कैब-उपयोक्तृणां, ४.५ लक्षं वैतनिकानां वैयक्तिक-विवरणानि प्राप्तानि।

जीएसटी, आरटीओ इत्यादीनां बृहत्संस्थानां अतिरिक्तं अमेजन, नेटफ्लिक्स, यूट्यूब, पेटीएम, फोन्पे, बिग बास्केट्, बुक माय शो, इन्स्टाग्राम, ज़ोमेटो, पोलिसीबाजार इत्यादीनां समवायानां गुप्तविवरणानि अपि सन्ति।

चोरितदत्तांशेषु सर्वकारीयाधिकारिणां  सेनाधिकारिणां पैनकार्डधारकाणां, नवतः द्वादशकक्षाछात्राणां, वरिष्ठनागरिकाणां, दिल्लीविद्युत्ग्राहकानां, डी-मैट् लेखाधारिणां जनानां, NEET-छात्राणां परिवाराणां च, उच्चधनिकवर्गस्य, बीमाधारकाणां, डेबिट्-क्रेडिट्-कार्ड-धारकाणां, पेनकार्डधारकाणां   नैकानां जनानां दूरभाषक्रमा-इमेइल-जन्मदिनाङ्क-परिवारविवरणम्-इत्यादिकं अतीवगुप्तविवरणानि अपि प्राप्तानि सन्ति।

एतत् सर्वविदितमस्ति यत् कतिपयदिनेभ्यः पूर्वं स्वास्थ्यमन्त्रालयस्य जालपूटः अपि भञ्जितः आसीत्। अपि च गतसप्ताहे ट्विटर् इत्यस्य २० कोटिजनानां ईमेइलाख्यानि चौरितानि आसन।

वार्तायाः आशयः अस्ति यत् एतादृशाः सहस्रशः जनाः धनलोभेन गुपविवरणानां व्यवसायं कुर्वन्ति। विश्वजनानां वैयक्तिकं जीवनं नास्ति। तेषां गुप्तता लोकभोग्या एव।

अद्यतनवार्ता

भारतम्

विश्वम्