Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उपराष्ट्रपतिः जगदीपधनखड: उक्तवान् यत् संस्कृतं दिव्यत्वस्य भाषा अस्ति, अस्माकं आध्यात्मिकतायाः अनुसन्धानस्य, दिव्येन सह सम्बद्धतायाः अन्वेषणस्य च पवित्रसेतुरूपेण कार्यं करोति। शुक्रवासरे तिरुपतिनगरे राष्ट्रियसंस्कृतविश्वविद्यालयस्य तृतीयं दीक्षांतसमारोहं सम्बोधयन् सः अवदत् यत् संस्कृतं मानवसभ्यतायाः चक्रवाते सांस्कृतिकं लङ्गरम् इति वर्णितवान्। भारतीयज्ञानव्यवस्थाया: पुनरुत्थाने प्रसारणे च राष्ट्रियसंस्कृतविश्वविद्यालयादिसंस्थानां भूमिकायां बलं दत्त्वा उपराष्ट्रपतिः अभिनवपाठ्यक्रमानाम् विकासाय, अन्तरविषयसंशोधनस्य पोषणाय च आह्वानं कृतवान्, येन संस्कृतस्य समृद्धपरम्पराया: आधुनिकशैक्षणिकआवश्यकतानां च मध्ये अन्तरं पूरयितुं शक्यते।

अद्यतनवार्ता

भारतम्

विश्वम्