Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देवभाषासंस्कृतम् अस्माकं देशस्य अमूल्यं धरोहरं वर्तते । संस्कृतभाषायाः सत्वम् एतावत् प्रबलं यत् तस्याः कवचस्य आश्रयस्य वा आवश्यकता नास्ति । अस्य गहनम् अद्भुतं च वाङ्मयं जीवनस्य उद्देश्यं दर्शयति । अत एव तस्य संपोषणं, संरक्षणं, संवर्धनं च अस्माकं सर्वेषां दायित्वम् अस्ति ।

अनेन भावेन प्रेरिताः अनेके संस्कृतप्रेमिणः जनाः, अनेकाः संस्थाः च देशे विदेशेषु अपि संस्कृतस्य प्रचाराय प्रसाराय च प्रयतन्ते । अस्यां दिशि कार्यं कुर्वती बृहत्तमा संस्था संस्कृतभारती प्रसिद्धा अस्ति । अनेन समूहेन वर्तमानयुगानुरूपम् अनेके विविधाः प्रयोगाः आचर्यते । अस्मिन् सन्दर्भे अस्मिन् वर्षे संस्कृतभारत्याः अन्ताराष्ट्रिसंस्कृतलघुचलच्चित्रमहोत्सवः २०२३ आयोजितः । एतदर्थं देशस्य अनेकभागेभ्यः USA-U.A.E.-आदिदेशेभ्यः मिलित्वा १०८ प्रविष्टयः प्राप्ताः । एतेषु अष्ट चलच्चित्राणि त्रयः प्रख्यातनिर्णायकैः श्रीयोगेशसोमणवर्येण (हिन्दी-मराठी-चलच्चित्रयोः निर्देशकः, लेखकः, अभिनेता च-ऊरी, दृश्यम्-१ तथा दृश्यम्-२) अन्यैः विशेषज्ञैः च चयनं कृतवन्तः। विभिन्नविषयेषु निर्मितेषु एतेषु लघुचलच्चित्रेषु गुजराततः प्रेषितस्य एकमात्रस्य सूरतस्य चलच्चित्रस्य चयनं जातम् । यस्य नाम अस्ति - "सन्धानम्" ।

सूरतनगरे निर्मितस्य अस्य लघुचलच्चित्रस्य विशेषता अस्ति यत् एतत् सम्पूर्णतया संस्कृतेन निर्मितम् अस्ति । अस्य पात्राणि केवलं संस्कृतभाषया एव संवादं कुर्वन्ति । ये अधिकतया बोधगम्याः सन्ति । आङ्ग्लभाषायाः उपशीर्षकाः अपि दत्ताः सन्ति । संस्कृतभाषा केवलं शास्त्रेषु, संस्कारेषु वा केषुचित् क्षेत्रेषु वा प्रयोक्तुं शक्यते न तु अन्यत्र इति भ्रमोऽपि अत्र भग्नः। देवभाषाया: संस्कृतस्य उपयोगः लोकभाषामाध्यमेन अपि कर्तुं शक्यते इति एतत् चलच्चित्रं सिद्धयति । अस्मिन् चलच्चित्रे प्राचीनकाले संस्कृतभाषा एव लोकभाषा आसीत् इति तथ्यं पुनःस्थापयति ।

संस्कृतेन चलच्चित्रनिर्माणस्य दुर्लभं कार्यं नगरस्य युवनिर्देशकः मोनाक्षः एन. कानिर्करः अन्ये द्वौ संस्कृतशिक्षकौ एभिः मिलित्वा कृतम् । अस्य अतिरिक्तं पटकथालेखनस्य, छायाचित्रणस्य, सम्पादनस्य, निर्माणस्य च दायित्वं मोनाक्ष एन. कानिर्करः ऊढवान् अस्ति । संवादाः श्रीमहरुद्रशर्मणा संस्कृतभाषया अनुवादिताः सन्ति । अस्मिन् वर्षे अन्ताराष्ट्रियसंस्कृतलघुचलच्चित्रमहोत्सवे अष्टानां चयनितचलच्चित्राणां प्रदर्शनं २७ जनवरी २०२३ दिनाङ्के नागपुरनगरे अभवत् । अन्ते श्रीयोगेशसोमणमहोदयः संस्कृतभारत्याः अखिलभारतीयः अध्यक्षः गोपबन्धुमिश्रमहोदयः च विजेतृभ्यः विविधानि पुरस्काराणि प्रदत्तवन्तः। अस्यां पुरस्कारश्रेण्यां "सन्धानम्" इत्यस्य दलेन त्रयः पुरस्काराः प्राप्ताः । 

चलचित्रस्य कथानकं किञ्चित् एतादृशम् अस्ति । अतिविशिष्टविचारेण चलच्चित्रं निर्मितम् अस्ति । आत्महत्यायाः विषयम् आधृत्य निर्मितं चलच्चित्रं वयं अवश्यं दृष्टवन्तः, परन्तु यदि द्वौ जनौ एकस्मिन् समये, एकस्मिन् स्थाने एकत्र आगत्य आत्महत्यां कुर्यास्तां तर्हि किं भवेत्?  परस्परम् अनभिज्ञौ द्वौ पुरुषौ । जीवनस्य विभिन्नसमस्याभिः कुण्ठितौ तौ सहसा एकस्मिन् स्थाने आत्महत्यां कर्तुं समागच्छतः । परस्परं अज्ञातौ, परन्तु पीडितौ द्वौ परस्परं संवादं कुरुतः, स्वदुःखानां विषये च कथयतः । अस्मिन् संवादक्रमे तौ पुनः स्वसमस्यानाम् उत्तरं प्राप्य साहसं प्राप्नुतः । अन्ते आत्महत्यार्थम् आगतौ द्वौ अपि परस्परं प्राणदातारौ भवतः । जीवनस्य अन्तं कर्तुम् आगतौ अपरिचितौ भावुकौ भूत्वा पितृपुत्रवत् परस्पम् आलिंगनं कुरुतः । जीवनं प्रति विरक्ततायाः कारणेन मनसि व्यापतम् अन्धकारं दूरीकृत्य नूतनप्रभातवत् जीवनेन सह पुनः सन्धानं (संयोगं) प्राप्नुतः।

आधुनिकजीवनस्य विविधसमस्याभिः कुण्ठिताः आत्महत्यायाः मार्गे ये सन्ति तेभ्यः आशां प्रदातुम् अस्य लघुचलच्चित्रस्य सन्देशः अस्ति । अस्मिन् लघुचलच्चित्रे द्वौ पात्रौ स्तः । श्रीमहारुद्रशर्मामहोदयः अभिषेकोपाध्यायमहोदयश्च सरलतया सुगमतया च संस्कृतसंवादं वदतः तथा च उभौ उत्तमम् अभिनयं प्रदर्शितवन्तौ, अत एव तौ द्वौ अपि 'उत्तमः अभिनेता' इति पुरस्कारं लभेते ।

 "सन्धानम्" इत्यस्य अन्यः गौरवस्य विषयः अस्ति प्रतिष्ठिते 'दादासाहेब फाल्के अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे-२०२३' इत्यस्मिन् अन्येषु विविधैः पुरस्कारैः सह अन्येषु अनेकेषु अन्ताराष्ट्रियचलच्चित्रमहोत्सवेषु नामाङ्कनम् आधिकारिकचयनं च अस्य जातम्  । इदम् अन्यत्रापि प्रेषितम् अस्ति -

इदानीं पर्यन्तं "सन्धानम्" इत्यस्य कृते प्राप्तपुरस्काराः -

१) दादासाहेब फाल्के अन्ताराष्ट्रीयचलच्चित्रमहोत्सवः२०२३

आधिकारिकं चयनम्

२) कलकत्ता इंटरनेशनल कल्ट फिल्म फेस्टिवल

समीक्षकचयनपुरस्कारः

३) अन्ताराष्ट्रियसंस्कृतचलच्चित्रमहोत्सवः- संस्कृतभारती

श्रेष्ठलघुचलचित्रम् - नामाङ्कनम्

उत्तमःअभिनेता - महारुद्र के. शर्मा, अभिषेक ए. उपाध्यायः

उत्तमं छायांकनम् - मोनाक्ष एन. कनीरकरः

४) मद्रास इंडिपींडेन्ट चलचित्रमहोत्सवः

आधिकारिकं चयनम्

५) रोम प्रिज्मा अन्ताराष्ट्रियचलचित्रपुरस्कारः, इटली

आधिकारिकं चयनम्

६) चित्रांगन अन्ताराष्ट्रीयचलचित्र-नाट्यमहोत्सवः, रीवा

आधिकारिकं चयनम्

भाषाणां जननी इति कथ्यमानं एतत् संस्कृतस्य चलच्चित्रं अन्ताराष्ट्रियमातृभाषादिने प्रसारितम् अस्ति, यत् Youtube माध्यमेन द्रष्टुं शक्यते।

अद्यतनवार्ता

भारतम्

विश्वम्