Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरस्य दीव्येश: रङ्गवल्ली-कलाज्ञ: अस्ति। व्यवसाये तु सर्वकारीयसेवायां रत: असौ रङ्गवल्लीनिर्माणे प्रवीण: अस्ति। संस्कृतभाषाया: महत्त्वं ज्ञात्वा स्वयं संस्कृतसम्भाषणशिबिरं गतवान् वक्तुं च आरब्धवान्। संस्कृतपठनान्तरं तस्य रङ्गवल्ल्यां अपि संस्कृतस्य प्रभाव: दृश्यते। जीवनं अपि संस्कृतमयं कर्तुं तेन सङ्कल्प: कृत: अत: संस्कृतदिनात् आरभ्य स्वभगिन्या सह संस्कृतेन वार्तालापं करिष्यति। यतोहि तस्य संस्कृतसम्भाषणस्य आरम्भ: अस्ति परन्तु सङ्कल्पबद्धतया स: निश्चयेन अग्रे प्रगतिं करिष्यति इति तस्य विश्वास:।  

अद्यतनवार्ता

भारतम्

विश्वम्