Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरे अद्य मेरी मिट्टी मेरा देश इति अभियानान्तर्गतं तिरंगायात्राया: आयोजनम् अभवत् आसीत्। अस्या: यात्राया: शुभारम्भ: घाटलोडिया इति विस्तारे गृहराज्यमन्त्रिणा अमितशाहेन मुख्यमन्त्रिणा भूपेन्द्रपटेलेन च कृतम्। अस्यां यात्रायां सेनाया: त्रयाणां पक्षाणां सैनिका:, आरक्षका:, विद्यालयछात्रा: च पथसञ्चलनं कृतवन्त:। सहस्रश: त्रिवर्णध्वजहस्ता: जना: अस्यां भागं अगृह्णन्। जनै: परिपूर्णे मार्गे स्थानिका: स्वगृहेषु अट्टालिकासु च पुष्पै: जयघोषै: च स्वागतं अकुर्वन्। अस्या: यात्राया: मुख्यम् आकर्षणं स्थानिकविद्यालयानां वाद्यवृन्दस्य पथसञ्चलनं ६०० मीटर दीर्घ: राष्ट्रध्वज: च। असम रेजीमेन्ट इत्यस्य सैनिका: अर्पितप्राणस्य बदलुरामस्य गीतस्योपरि नृत्यं कृत्वा नागरिकाणां आनन्दं वर्धितवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्