Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबाद-महानगरस्य असारवाविस्तारे तमाखु कारणात् कर्करोगेण पीडितायाः मृतायाः एकस्याः महिलायाः परिवारेण तस्याः शोकसभायाम् एव एकस्याः संस्थायाः सहयोगेन जनजागृति-अभियानम् आरब्धम्। तमाखुकारणात् जायमानानां रोगाणां विवरणं तस्य प्रभावः इत्यादिनां विषये तत्र प्रदर्शनी अपि स्थापिता आसीत्। तमाखुत्यागस्य कृते औषधस्य वितरणं अपि तत्र जातमासीत्। एतत् सर्वमपि उमंग-सेवा-ट्रस्ट इति नाम्नः समवायेन कृतम्।

अद्यतनवार्ता

भारतम्

विश्वम्