Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयनाणकस्य अवमूल्यनं मृत्तैलस्य मूल्यवर्धनञ्चेति कारणात् कोंग्रेसदलं समेत्य अन्यविपक्षिदलैः भारतपिधानस्य आह्वानं कृतमासीत्। आन्दोलनेस्मिन् समग्रे भारते मिश्रप्रतिभावः उत्पन्नः आसीत्। बिहारराज्ये नैकेषु स्थानेषु हिंसाचरणेन जनता प्रभाविता अभवत्। मध्यप्रदेशे अपि कुत्रचित् हिंसाक्रमणं दृष्टम्। बिहारराज्यस्य जहानाबादप्रदेशे  मार्गावरोधकारणात् रुग्णवाहिनी योग्यसमये चिकित्सालयं प्राप्तुं समर्था न जाता तेन कारणेन द्विवर्षीयायाः बालिकायाः मृत्युः अपि अभवत्। उपचारार्थं परिवारजनाः बालिकां चिकित्सालयं प्रति नयन्ति स्म परन्तु हिंसाचरणकारणात् मार्गावरोधात् बालिकया मार्गे एव पार्थिवशरीरं त्यक्तम्। आन्दोलनकारिणः बलपूर्वकं औषधालयान् समालक्ष्यन्ति। जनाः एतेन महत् कष्टम् अनुभवन्ति। घटनया अनया समग्रे भारते दुःखप्रदं वातावरणं उत्पन्नं जातम्।

अद्यतनवार्ता

भारतम्

विश्वम्