Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य मुख्यमन्त्री यदा अखिलेशयादवः आसीत् तदा सर्वकारीयनिवासस्य सुशोभनाय द्विचत्वारिंशत् कोटिरूप्यकाणां व्ययः कृतः आसीत् सर्वकारेण। यदा सर्वकारीयादेशकारणात् गृहं रिक्तं करणीयम् अभवत् तदा तेन सम्पूर्णं गृहस्य विभञ्जनम् एव कृतम्। आवासोऽयं विक्रमादित्यमार्गे अस्ति। गृहत्यागः तस्मै तथा खिन्नमकरोत् यत् सः भित्तौ तरणताले च स्थापिताः मुल्यवन्तः, नैवेशिकानि, उपस्कराणि, छदाः, कुट्टिमाः, पिञ्जफलकानि, यन्त्राणि, सुखासनानि, आसन्दाः, पर्यङ्काः, वृक्षाः इत्यादयः सर्वमपि ध्वंसं कृतवान्। यदा वार्ताहराः गृहे प्रविष्टवन्तः तदा गृहस्य एकोऽपि कोणः तादृशः नासीत् यत्र प्रणाशः न कृतः। जनानां परिश्रमस्य धनेन सुखवैभवं अनुभवतां नेतॄणां मन्त्रिणां वा एतादृशः पराक्रमः नैवः योग्यः, नितरां लज्जास्पदम्।

अद्यतनवार्ता

भारतम्

विश्वम्