Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यौन-उत्पीडनस्य आरोपैः ग्रस्तः भारतीयमल्लक्रीडासङ्घस्य अध्यक्षः बृजभूषणशरणसिंहः शुक्रवासरे त्यागपत्रं दातुं न अङ्गीकृतवान्। सः अवदत् यत् यदि अहं मुखं उद्घाटयिष्यामि चेत् सुनामी इति आगमिष्यति । मम समर्थने अपि बहवः क्रीडकाः सन्ति।

भारतीय-ओलम्पिकसङ्घं प्रति लिखिते पत्रे मल्लयुद्धकारिणः आरोपितवन्तः यत् यदा विनेशफोगाट् टोक्यो ओलम्पिकक्रीडायां पदक प्राप्तुं असमर्था तदा  मल्लक्रीडासङ्घस्य अध्यक्षः बृजभूषणशरणसिंहः ताम् एतावत् उत्पीडितवान् यत् विनेशः आत्महत्यायाः विषये चिन्तयन्ती आसीत्। विरोधस्थले विनेशफोगाट् अवदत् यत् यदि अस्माकं अभ्यर्थना न स्वीकरिष्यन्ते तर्हि आन्दोलनं निरन्तरं भविष्यति। कटं विस्तार्य अत्र एव वयं अभ्यासं करिष्यामः। वयं स्वविषयान् क्रीडामन्त्रिणः समक्षं स्थापितवन्तः। केन्द्रीयक्रीडामन्त्री अनुरागठाकुरः गुरुवासरे रात्रौ विरोधं कुर्वद्भि मल्लयुद्धक्रीडाकैः सह स्वस्य आधिकारिकनिवासस्थाने रात्रिभोजसमये प्रायः सार्धचतुर्घण्टाः यावत् चर्चां कृतवान् अपि च मल्लयुद्धसङ्घस्य अध्यक्षस्य उत्तरं प्रतीक्षितुं च निवेदितवान् ।

अद्यतनवार्ता

भारतम्

विश्वम्