राजधान्यां गतरात्रौ मेघगर्जनेन सह प्रचण्डवृष्टिः अभवत्। एतेन देहल्या: तापमानं न्यूनीभूतमस्ति। जलवायुविभागेन जम्मू-कश्मीर-छत्तीसगढ-तेलाङ्गाना-असम-महाराष्ट्र-कर्नाटक-कोङ्कणतटादिषु क्षेत्रेषु वर्षायाः नारङ्गवार्णिका सञ्चेतना प्रसारिता अस्ति । देशस्य प्राय: सर्वेषु राज्येषु सामान्यत: प्रचण्डवृष्टे: पूर्वानुमानं वर्तते। आगामि-द्वि-त्रि-दिवसेषु परिस्थिति: एतादृशी एव भविष्यति।
चित्रं - प्रतीकात्मकम्