Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तेलङ्गाना-राष्ट्र-समितिद्वारा आयोजितायां सभायां लक्षशः जनाः उपस्थिताः आसन्। तदर्थं आरक्षिदलेन दुर्घटना परिहाराय सम्यक् व्यवस्था कृता आसीत्। एतस्मिन् समये आरक्षिदले कार्यं कुर्वाणौ पुत्री पिता च परस्परं मिलितवन्तौ तदा पित्रा पुत्री अभिवादिता। वस्तुतः पिता उमामहेश्वरशर्मा डी.सी.पी इति पदे आरूढः अस्ति तस्य पुत्री च सिंधु शर्मा आई.पी.एस. पदे कार्यरता अस्ति।

लक्षशः जनानां मध्ये डी.सी.पी. पित्रा यदा आई.पी.एस. पदे नियुक्ता पुत्री अभिवादिता तदा तौ जानन्तः अन्ये आरक्षकाः मृदु हास्यं कृतवन्तः। पितुः वदने अपि गौरवस्य भावं द्रष्टुं शक्यते।
 
अद्यतनवार्ता

भारतम्

विश्वम्