Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकविंशतितमे दिनाङ्के जगत: अशीत्युत्तरैकशतं राष्ट्रेषु तृतीय: विश्वयोगदिवस: आचरित: । अत्युत्साहेन विश्वजनै: योगाभ्यास: कृत: । अहमदाबादस्य योगार्चनम् इति योगप्रचारसंस्थाया: विरलेन गर्भावस्थाया: नवमे मासे प्रविष्टवत्या स्वपत्न्या निहारिकया सह योगाभ्यास: कृत: । दम्पतीभ्यां योगस्य उच्चाभ्यास: कृत: अस्ति। तथैव अनेकै: जनै: भिन्नप्रकारेण योगाभ्यासं कृत्वा योगं प्रति स्वकृतज्ञता प्रकटिता। बिहारस्य रविना ४० निमेष यावत् सिद्धपद्मासनं कृतम् । राजस्थानस्य मनीषया ५१ निमेष यावत् शीर्षासनं कृतम्। तथैव राजकोटनगरे चतुर्षु तरणतालेषु ७८२ महिलाभि: जलयोगासनं कृत्वा विश्वविक्रम: स्थापित: । अमेरिकाया: लिन्च कोईम्बतुरस्य अम्मा च बेङ्गलुरुनगरे एकस्मिन् मञ्चे उपस्थिते आस्ताम् । ९८ वर्षीये द्वावपि विश्वस्य वृद्धतमे योगशिक्षिके स्त:।

अद्यतनवार्ता

भारतम्

विश्वम्