Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः 54 कि.मी. अतिदीर्घं वीथीप्रदर्शनं सायं 5:15 वादने नरोडाग्रामात् आरब्धमासीत् । इदं वीथीप्रदर्शनं रात्रौ 09:00वादने चांदखेडास्थाने समाप्तमभवत्। एतस्मिन् वीथीप्रदर्शनमार्गः 14 विधानसभास्थानेषु निर्धारितः आसीत्। एतस्मिन् वीथीप्रदर्शने आरम्भतः अन्तपर्यन्तं मार्गम् उभयतः उत्साहितः जनसम्मर्दः दृश्यते स्म। सततं 03:45 होरापर्यन्तं प्रधानमन्त्रिणा हस्तोत्तोलनेन जनानाम् अभिवादनं स्वीकृतम्। मार्गेषु कुत्रचित जनैः पुष्पवर्षणेन अपि मोदिनः स्वागतं कृतम्।  गुजरातविधानसभायाः निर्वाचनसमये इदं वीथीप्रदर्शनं महत्त्वपूर्णं मन्यते। 

अद्यतनवार्ता

भारतम्

विश्वम्