हिमाचलप्रदेशस्य मण्डीनगरे सोमवासरे (३० जून) रात्रौ मेघविस्फोटस्य १० घटनाः अभवन् । अनेन उत्पन्नजलप्रलयेन १६ जनाः लुप्ता: । मङ्गलवासरे सायं यावत् ५ शवा: प्राप्ताः। अन्येषां अन्वेषणं प्रचलति।
मण्डीनगरस्य कथुनागस्य जलप्लावनेन नैकानि गृहाणि जलप्रभावितानि । मण्डीनगरस्य करसोग, धरमपुर, बागशायाद, थुनाग, गोहार क्षेत्रेषु १०० तः अधिकग्रामेषु २४ घण्टाभ्यः स्वगृहेष्वेव गृहीता:। अद्यत्वे अपि राज्ये प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना अस्ति।
उत्तरप्रदेशे वाराणस्यां गङ्गायाः जलस्तरः प्रतिहोरं ५० मि.मी.वर्धमान: अस्ति, २४ घण्टेषु जलस्तरः २ मीटर् वर्धितः अस्ति । मणिकर्णिकाघाटपर्यन्तं जलमागतमस्ति।
राजस्थानस्य भरतपुरे प्रचण्डवृष्टेः अनन्तरं नगरस्य अधिकांशमार्गाः २ फिट्परिमितजलेन प्लाविताः अभवन् । मध्यप्रदेशस्य अधिकांशक्षेत्रेषु बुधवासरस्य प्रातःकालादेव वर्षा प्रचलति। राज्ये आगामिचतुर्दिवसानां प्रबलवृष्टिव्यवस्था सक्रिया अस्ति ।