प्रथमः समूहः बुधवासरे अमरनाथयात्रायै जम्मूतः प्रस्थितवान्। भगवतीनगरमुख्यशिबिरात् उपराज्यपालः मनोज सिन्हा इत्यनेन प्रथमसमूहाय हरितध्वज: दर्शित:। एतस्मिन् समये भक्ताः 'हर हर महादेव', 'बम बम भोले' इति जपं कुर्वन्ति स्म । यात्रा आधिकारिकतया ३ जुलैतः आरप्स्यते।
३८ दिवसीया यात्रा पहलगाम-बालटाल-इति द्वाभ्यां मार्गाभ्यां भविष्यति । रक्षाबन्धनदिने अगस्तमासस्य ९ दिनाङ्के यात्रायाः समापनं भविष्यति। गतवर्षे ५२ दिवसान् यावत् यात्रा अभवत्, ५ लक्षं भक्ताः पवित्रगुहामागत्य दर्शनं कृतवन्त:। अस्मिन् वर्षे एतावता ३.५ लक्षाधिकाः तीर्थयात्रिकाः पञ्जीकरणं कृतवन्तः। तत्कालपञ्जीकरणार्थं जम्मू-नगरस्य सरस्वतीधाम, वैष्णवीधाम, पंचायतभवनं, महाजनसभा इत्यत्र केन्द्राणि उद्घाटितानि सन्ति। एतेषु केन्द्रेषु प्रतिदिनं द्विसहस्रं भक्तानां पञ्जीकरणं क्रियते।