Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तराखण्डस्य रुद्रप्रयागमण्डलस्य केदारनाथधामतः प्रत्यागताः ४० तीर्थयात्रिकाः प्रत्यागच्छन्त: आसन् तदा अत्यधिकवृष्ट्या सोनप्रयागस्य समीपे भूस्खलनक्षेत्रे आकस्मिकं भूस्खलनं जातम् । यस्य कारणात् ते तत्र अवरुद्धा:।

दुर्घटनाविषये सूचनाप्राप्तमात्रेण नियोजिताः एसडीआरएफ-कर्मचारिणः तत्स्थानं प्राप्तवन्तः । एसडीआरएफ-दलेन तीर्थयात्रिकाणां कृते सुरक्षितं मार्गं कृत्वा स्लाइड्-क्षेत्रात् बहिः सफलतया नीता: । 

प्रचण्डवृष्ट्या हिमाचलप्रदेशे सामान्यजीवनं बाधितं जातम्। राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य प्रतिवेदनानुसारं हिमाचलप्रदेशे २० जूनतः आरभ्य आहत्य ६३ जनानां प्राणाः गताः, ५६ जनाः लुप्ता: सन्ति । १०३ जनाः आहताः, ८४ पशवः मृताः, २२३ गृहाणि च क्षतिग्रस्ताः सन्ति। मण्डीनगरे एव १३ जनाः मृताः। यदा तु २९ जनाः लुप्ता: सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्