Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयवातावरणविभागेन विज्ञप्तौ उक्तं यत् दक्षिणपूर्व-अरबसागरे उद्भूत: अपकर्षः “बिपारजोय” नाम्नि चक्रवाते परिणतः अस्ति। बिपरजोय इति नाम बाङ्गलादेशेन दत्तम् अस्ति।

चक्रवात: सायं ५.३० वादने गोवातः दक्षिणपश्चिमदिशि प्रायः ९२० कि.मी, मुम्बईतः १०५० कि.मी दक्षिणपश्चिमे, पोरबन्दरतः दक्षिणपूर्वदिशि ११३० कि.मी., कराचीतः १४३० कि.मी. दूरे स्थित: आसीत्। विभागेन कोङ्कण-गोवा-महाराष्ट्रतटस्य 8 जूनतः 10 जूनपर्यन्तं कालपर्यन्तं संचेतना प्रकटिता अस्ति। मत्स्यजीविभ्यः समुद्रे न गन्तुं निर्देश: दत्तः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्